Wednesday, December 25, 2019

Mahapragya Ashtakam

Changing the music style a bit, here are eight Sanskrit stanzas in praise of the tenth Acharya of Jain Terapanth sect – Acharya Mahapragya.

महाप्रज्ञ अष्टकम्

पुनीतान्तः प्रज्ञा गहनतम-तत्त्वेषु निपुणा
श्रुतस्वाध्यायेन सुविदितरहस्यो विभुवरः |
प्रशस्या शास्त्राणां सुषमतर-सम्पादन-सृतिः
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

विशुद्धा सम्भाषा विनयति विबाधाः प्रतिपदम्
प्रकाण्डं पाण्डित्यं श्रुवति मुखपद्मात् प्रवचने |
प्रभावी व्याहारो जनयति समाधिं जनचये
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

गभीरं साहित्यं सुमतिविदुषां प्रीतिजनकम्
प्रदत्ते सौहित्यं पठनपर-लोकाय विपुलम् |
विशिष्टश्लोकानां विरचनमकार्यायशुकविना
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

तनावग्रस्तोऽयं विविधभययुक्तश्च मनुजः
विधत्ते सन्तापं प्रशमसमभावाद् विरहितः |
शुभं प्रेक्षाध्यानं सहजसुखदं विश्ववरदम्
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

विकासो बुद्धेः स्याद् विशदतरभावेन सहितः
पवित्रा लेश्या चेत् प्रखरमतिलाभोऽपि सुफलः |
शिवा शिक्षाक्षेत्रे बुधनरमता जीवनकला
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

अहिंसा शक्तीनां भवतु समवायः सुखकरः
सदा यात्रा भूयात् विविधजनताया हितकृते |
जगत्यां तेजस्ते प्रहरतुतमां व्याप्त तिमिरम्
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

दयाभावः पुण्यो विलसतितरां पूतहृदये
प्रकामं वात्सल्यं प्रवहति सुधातुल्यममलम् |
प्रसन्ना मुद्रेयं स्फुरति वदने शान्ति-जननी
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

शरच्चन्द्रेश्वेतो गण गगन भानुर्गतमलः
सुलब्धा प्रख्यातिः प्रणयन-कलायां कविकुले |
प्रदत्तं विज्ञेभ्यः कठिनतर पृच्छा-प्रतिवचः
महाप्रज्ञः पूज्यो जिनपतिसरूपो गुरुवरः ||

– युवाचार्य महाश्रमण

आचार्य महाप्रज्ञ और युवाचार्य महाश्रमण

No comments:

Post a Comment